श्री गोवर्धन नाथ पाद युगलम हे यंगवीन प्रियं ।
नित्यं श्री मधुराधिपं सुखकरं श्री विट्ठलेशं मुदा ॥

श्रीमदद्वारवतीश गोकुल पति श्री गोकुलेन्दुं विभुं ।
श्री मन मन्मथ मोहनं नटवरं श्री बालकृष्णं भजे ॥

श्रीमद वल्लभ विट्ठ्लो  गिरिधरं  गोविन्दराया मिधम ।
श्रीमद बालकृष्ण गोकुलपति नाथं रघुणाम तथा ॥

एवं श्री यदुनायकं किल घनश्यामं च तद् वंशजान् ।
कालिन्दिन स्व गुरुं गिरिं गुरु विभुं स्वीयत प्रभुश्च स्मरेत ॥

चिन्ता सन्तान हन्तारो यत्पादांबुज रेणवः।
स्वीयानां तान्निजार्यान प्रणमामि मुहुर्मुहुः ॥१॥

यदनुग्रहतो जन्तुः सर्व दुःखतिगो भवेत ।
तमहं सर्वदा वंदे श्री मद वल्लभ नन्दनम॥२॥

अज्ञान तिमिरान्धस्य ज्ञानान्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरुवै नमः ॥३॥

नमामि हृदये शेषे लीलाक्षीराब्धिशायिनम ।
लक्ष्मी सहस्त्रलीलाभिः सेव्यमानं कलानिधिम॥४॥

चतुर्भिश्च चतुर्भिश्च चतुर्भिश्च त्रिभिस्तथा ।
षडभिर्विराजते योSसौ  पंचधा हृदये ममः ॥५॥
॥इति श्री मंगलाचरण संपूर्णम॥

॥श्रीमदाचार्य चरण कमलेभ्य नमः॥