You are currently browsing the category archive for the ‘महाप्रभु श्री वल्लभ’ category.
पश्चात्तपनिवृत्यर्थं परित्यागो विचार्यते।
स मार्गाद्वितये प्रोक्तो भक्तौ ज्ञाने विशेषतः॥१॥
कर्म मार्गे न कर्त्तव्यः सुतरां कलिकालतः।
अत आदौ भक्तिमार्गे कर्त्तव्यत्वाद्विचारणा॥२॥
श्रवणादिप्रसिद्धयर्थं कर्त्तव्यश्चेत्स नेष्यते।
सहाय संग साध्यत्वात्साधनानां च रक्षणात्॥३॥
अभिमानान्नियोगाच्च तद्धर्मैश्च विरोधतः।
गृहादेर्बाधकत्वेन साधनार्थं तथा यदि॥४॥
अग्रेsपि तादृशैरेव संगो भवति नान्यथा।
स्वयंच विषयाक्रान्तः पाषण्डी स्यात्तु कालतः॥५॥
विषयाक्रांत देहानां नावेशः सर्वथा हरेः।
अतोsत्र साधने भक्तौ नैव त्यागः सुखावहः॥६॥
विरहानुभवार्थ तु परित्यागः प्रशस्यते।
स्वीयबन्धनिवृत्यर्थं वेषः सोsत्र न चान्यथा॥७॥
कौण्डिन्यो गोपिकाः प्रोक्ता गुरवः साधनं च तत्।
भावो भावनया सिद्धः साधनं नान्यदिष्यते॥८॥
विकलत्वं तथाsस्वास्थ्यं प्रकृतिः प्राकृतं नहि।
ज्ञानं गुणाश्च तस्यैवं वर्त्तमानस्य बाधकाः॥९॥
सत्यलोके स्थितिर्ज्ञानात्संन्यासेन विशेषितात्।
भावना साधनं यत्र फलं चापि तथा भवेत्॥१०॥
तादृशाः सत्यलोकदौ तिष्ठन्त्येव न संशयः।
बहिश्चेत्प्रकटः स्वात्मा वहिवत्प्रविशेद्यदि॥११॥
तदैव सकलोबन्धो नाशमेति न चान्यथा।
गुणास्तुसंगराहित्याज्जीवनार्थं भविन्ति हि॥१२॥
भगवान् फलरूपत्वान्नात्र बाधक इष्यते।
स्वास्थ्यवाक्यं न कर्त्तव्यं दयालुर्न विरुद्धयेत॥१३॥
दुर्लभोsयं परित्यागः प्रेरणा सिद्धयति नान्यथा।
ज्ञानमार्गे तु सन्यासो द्विविधोsपि विचारितः॥१४॥
ज्ञानार्थमुत्तराग्ङञ्च सिद्धिर्जन्मशतैः परम्।
ज्ञानं च साधनापेक्षं यज्ञादिश्रवणान्मतम्॥१५॥
अतः कलौ स सन्यासः पश्चात्तापाय नान्यथा।
पाषण्डित्वं भवेच्चापि तस्माज्जाने न सन्यसेत्॥१६॥
सुतरां कलिदोषाणां प्रबलत्वादिति स्थितम्।
भक्तिमार्गेपिचेद्दोषस्तदा किं कार्यमुच्यते॥१७॥
अत्रारम्भे न नाशः स्याद् दृष्टान्तस्याप्यभावतः।
स्वास्थ्यहेतोः परित्यागाद् बाधः केनास्य संभवेत्॥१८॥
हरिरत्र न शक्नोति कर्तु बाधां कुतोsपरे।
अन्यथा मातरो बालान् न स्तन्यैः पुपुषुः क्वचित्॥१९॥
“ज्ञानिनामपि” वाक्येन न भक्तं मोहयिष्यति।
आत्मप्रदः प्रियश्चापि किमर्थं मोहयोष्यति॥२०॥
तस्मादुक्तप्रकारेण परित्यागो विधीयताम्।
अन्यथा भ्रश्यते स्वार्थादिति में निश्चता मतिः॥२१॥
इति कृष्णप्रसादेन वल्लभेन विनिश्चतम्।
सन्यासावरणं भक्तावन्यथा पतितो भवेत्॥२२॥
॥इति श्रीवल्लभाचार्यविरचितः सन्यासनिर्णयः समाप्तः॥
श्रीकृष्णरसविक्षिप्तमानसा रतिवर्जिताः।
अनिर्वृतालोकवेदे ते मुख्याः श्रवणोत्सुकाः॥१॥
विक्लिन्नमनसो ये तु भगवत्स्मृतिविहृवलाः।
अर्थेकनिष्ठास्ते चापि मध्यमाः श्रवणोत्सुकाः॥२॥
निःसंदिग्धं कृष्णतत्वं सर्वभावेन ये विदुः।
तत्वावेशात्तु विकला निरोधाद्वा न चान्यथा॥३॥
पूर्णभावेन पूर्णाथाः कदाचित्त तु सर्वदा।
अन्यासक्तास्तु ये केचिदधमाः परिकीर्तिताः॥४॥
अनन्यमनसो मर्त्या उत्तमाः श्रवणादिषु।
देशकालद्रव्यकर्तृ मन्त्रकर्म प्रकारतः॥५॥
॥इति श्रीवल्लभाचार्यविरचितनि पच्चपद्यानि॥
यथा भक्तिः प्रवृद्धा स्यात्तथोपायो निरूप्यते।
बीजभावे दृढ़े तु स्यात्यागाच्छवण कीर्त्तनात्॥१॥
बीजदाढ्र्य प्रकारस्तु गृहे स्थित्वा स्वधर्मतः।
अव्यावृत्तो भजेत्कृष्णं पूजया श्रवणादिभिः॥२॥
व्यावृतोsपि हरौ चित्तं श्रवणादौ यतेत्सदा।
ततः प्रेम तथाssसक्तिर्व्यसनं च यदा भवेत्॥३॥
बीजं तदुच्यते शास्त्रे दृढ़ं यन्नपि नश्यति।
स्नेहाद्रागविनाशः स्यादासत्तया स्याद्गृहारुचिः॥४॥
गृहस्थानां बाधकत्वमनात्मत्वं च भासते।
यदा स्याद्वयसनं कृष्णे कृतार्थः स्यात्तदैव हि॥५॥
ताद्यशस्यापि सततं गृहस्थानं विनाशकम्।
त्यागं कृत्वा यतेद्यस्तु तदर्थार्थैकमनसः॥६॥
लभेत सुदृढ़ां भक्तिं सर्वतोप्यधिकां पराम्।
त्यागे बाधकभूयस्त्वं दुःसंसएगात्तथान्नतः॥७॥
अतस्थेयं हरिस्थाने तदीयैः सह तत्परेः।
अदूरे विप्रकर्षे वा यथा चित्तं न दुष्यति ॥८॥
सेवायां वा कथायां वा यस्याssसक्तिर्दृढ़ा भवेत।
यावज्जीवं तस्य नाशो न क्वापीति मे मतिः॥९॥
बाधसंभावनायं तु नैकान्ते वास इष्यते।
हरिस्तु सर्वतो रक्षां करिष्यति न संशयः॥१०॥
इत्येवं भगवच्छास्त्रं गूढतत्वं निरूपितम्।
य एतत्समधीयेत तस्यापि स्याद् दृढ़ा रतिः॥११॥
॥इति श्रीवल्लभाचार्यविरचित भक्तिवर्द्धिनी सम्पूर्णा॥
पुष्टिप्रवाह मर्यादा विशेषेण पृथक पृथक।
जीव-देह-क्रियाभेदैः प्रवाहेण फलेन च॥१॥
वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छुतेः।
भक्तिमार्गस्यकथनात पुष्तिरस्तीति निश्चयः॥२॥
“द्वौ भूतसर्गा” वित्युक्तेः प्रवाहोSपि व्यवस्थितः।
वेदस्य विद्यमानत्वान्मर्यादापि व्यवथिता ॥३॥
कश्चितदेव हि भक्तो हि “यो मद्भक्त” इतीरणात।
सर्वत्रोत्कर्षकथनात पुष्टिरस्तीति निश्चयः॥४॥
न सर्वोतः प्रवाहादि भिन्नोवेदाच्च भेदतः।
“यदा यस्ये” ति वचना “न्नाहंवेदै” रितीरणात॥५॥
मार्गैकत्वेपि चेदन्त्यौ तनू भक्तयागमौ मतौ।
न तद्युक्तं सूत्रतोहि भिन्नौ युक्तया हि वैदिकः॥६॥
जीवदेहकृतीनां च भिन्नत्वं नित्यता श्रुतेः।
यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः॥७॥
प्रमाण्भेदाद्भिन्नोहि पुष्टिमार्गो निरूपितः।
सर्गभेदं प्रवक्ष्यामि स्वरूपांगक्रियायुतम॥८॥
इच्छामात्रेण मनसा प्रवाहं सृष्टवान हरिः।
वचसा वेदमार्ग हि पुष्टिः कायेन निश्चयः॥९॥
मूलेच्छातः फलं लिके वेदोक्तं वैदिकेपि च।
कामेन तु फलं पुष्टौ निजेच्छातोsपि नैकता॥१०॥
“तानहं द्विषतो” वाक्याद्भिन्ना जीवाः प्रवाहिणः।
अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः॥११॥
तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः।
भगवदरूप सेवार्थं तत्सृष्टिर्नान्यथा भवेत॥१२॥
स्वरूपेणावतारेण लिंगेन च गुणेन च।
तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा॥१३॥
तथापि यावता कार्य तावत्त्स्य करोति हि।
ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुन॥१४॥
प्रवाहादिविभेदेन भगवतकार्यसिद्धये।
पुष्ट्याविमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः॥१५॥
मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः।
एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते॥१६॥
भगवानेव हि फलं स यथाssविर्भवेद्भुवि।
गुणस्वरूपभेदेन तथा तेषां फलं भवेत॥१७॥
आसक्तौ भगवानेव शापं दापयति क्वचित।
अहंकारेsथवा लोके तन्मार्गस्थापनाय हि॥१८॥
न ते पाषण्डतांयान्ति न च रोगाद्युपद्रवाः।
महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे॥१९॥
भगवत्तारतम्येन तारतम्यं भजन्ति हि।
वैदिकत्वं लौकिकत्वं कापट्यात्तेषु नान्यथा॥२०॥
वैष्णवत्वं हि सहजं ततोsन्यत्र विपर्ययः।
सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथाsपरे॥२१॥
चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववतर्मसु।
क्षणात्सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित॥२२॥
तेषां क्रियानुसारेण सर्वत्र शकलं फलं।
प्रवाहस्थान प्रवक्ष्यामि स्वरूपांगक्रियायुतान॥२३॥
जीवास्ते ह्मासुराः सर्वे “प्रवृत्तिं चेति” वर्णिताः।
ते च द्विधा प्रकीतर्यन्ते ह्मज्ञदुर्ज्ञविभेदतः॥२४॥
दुर्ज्ञास्ते भगवत्प्रोक्ता ह्मज्ञास्ताननु ये पुनः।
प्रवाहेपि समागत्य पुष्टिस्थस्तैर्न युज्यते॥
सोsपिस्तैस्तत्कुले जातः कर्मणा जायते यतः॥२५॥
॥इति श्रीमद वल्लभाचार्य विरचितः पुष्टिप्रवाहमर्यादाभेदः सम्पूर्ण॥
नत्वा हरिं प्रवक्ष्यामि स्वसिद्धांत विनिश्चयम।
कृष्ण सेवा सदा कार्या मानसी सा परा स्मृता॥१॥
चेतस्तस्प्रवणं सेवा तत्सिच्द्धयै तनुवित्तजा।
ततः संसारदुःखस्य निवृत्तिर्ब्रह्मबोधनम॥२॥
परं ब्रह्म तु कृष्णो हि सच्चिदानंदकं बृहत।
द्विरूपं तद्वि सर्वं स्यादेकं तस्माद्विलक्षणम॥३॥
अपरं तत्र पूर्वस्मिन वादिनो बहुधा जगुः।
मायिकं सगुणं कार्यं स्वतंत्र चेति नैकधा॥४॥
तदेवैतत्प्रकारेण भवतीति श्रुतेर्मतम।
द्विरूपं चापि गंगावज्ज्ञेयं सा जलरूपिणी॥५॥
माहात्म्यसंयुता नृणां सेवतांभुक्तिमुक्तिदा।
मर्यादामार्गविधिना तथाब्रह्मापि बुद्ध्यताम॥६॥
तत्रैव देवतामूर्तिर्भक्तया या हश्यते क्वचित।
गंगायांच विशेषेण प्रवाहाभेदबुद्धये॥७॥
प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात्तया जले।
विहिताच्च फलात्तद्धि प्रतीत्यापि विशिष्यते॥८॥
यथा जलं तथा सर्वं यथा शक्ता तथा बृहत।
यथा देवी तथा कृष्ण्स्तत्राप्येतदिहोच्यते॥९॥
जगत्तु त्रिविधं प्रोक्तं ब्रह्मविष्णुशिवास्ततः।
देवतारूपवत्प्रोक्ता ब्रह्मणीत्थं हरिर्मतः॥१०॥
कामचारस्तु लोकेस्मिब्रह्मदिभ्यो न चान्यथा ।
परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः॥११॥
अतस्तु ब्रह्मवादेन कृष्णे बुद्धिर्विधीयताम।
आत्मनि ब्रह्मरूपे हि छिद्रा व्योम्नीव चेतनाः॥१२॥
उपाधिनाशे विज्ञाने ब्रह्मत्वत्वावबोधने।
गंगातीरस्थितो यद्वदेवतां तत्र पश्यति॥१३॥
तथा कृष्णं परं ब्रह्म स्वस्मिन ज्ञानी प्रपश्यति।
संसारी यस्तु भजते स दूरस्थो यथा तथा॥१४॥
अपेक्षित जलादीनामभावात्तत्र दुःखभाक।
तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः॥१५॥
आत्मानंदसमुद्रस्थं कॄष्णमेव विचिन्तयेत।
लोकार्थी चेदभजेत कृष्णं क्लिष्टो भवति सर्वथा॥१६॥
क्लिष्टोपि चेदभजेत कॄष्णं लोको नश्यति सर्वथा।
ज्ञानाभावे पुष्टिमार्गी तिष्ठेत पूजोत्सवादिषु॥१७॥
मर्यादस्थस्तु गंगायां श्रीभगवततत्परः।
अनुग्रहः पुष्टिमार्गे नियामक इति स्थितिः॥१८॥
उभयोस्तु क्रमेणैव पूर्वोक्तैव फलिष्यति।
ज्ञानाधिको भक्तिमार्ग एवं तस्मान्निरूपितः॥१९॥
भक्तयभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः।
अन्यथाभावनापन्नस्तस्मात्स्थानाच्च नश्यति॥२०॥
एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम।
एतदवुध्वा विमुच्येत पुरुषः सर्वसंशयात॥२१॥
॥इति श्री वल्लभाचार्य विरचिता सिद्धांतमुक्तावली सम्पूर्ण॥
हाल ही की टिप्पणियाँ