You are currently browsing the category archive for the ‘श्री वल्लभ’ category.

यच्च दुःखं यशोदाया नन्दादीनां च गोकुले।
गोपिकानां तु यद्‌दुःखं स्यान्मम क्वचित्‌॥१॥

गोकुले गोपिकानां च सर्वेषां व्रजवासिनाम्‌।
यत्सुखं समभूत्तन्मे भगवान्‌ किं विधास्यति॥२॥

उद्धवगमने जात उत्सवः सुमहान्‌ यथा।
वृन्दावने गोकुले वा  तथा मे मनसि क्वचित्‌॥३॥

महतां कृपयां यावद्‌ भगवान्‌ दययिष्यति।
तावदानन्दसन्दोहः कीर्त्यमानः सुखाय हि॥४॥

महतं कृपया यद्वत्‌ कीर्त्तनं सुखदं सदा।
न तथा लौकिकानां तु स्निग्धभिजनरुक्षवत॥५॥

गुणगाने सुखावाप्तिर्गोव्न्दस्य प्रजायते।
यथा तथा शुकादीनां नैवात्मनि कुतोsन्यतः॥६॥

क्लिश्यमानाच्जनान्‌ दृष्ट्‌वा कृपायुक्तो यदा भवेत्‌।
तदा सर्वं सदानन्दं हृदिस्थं निर्गतं बहिः॥७॥

सर्वानन्दमयस्यापि कृपानन्दः सुदुर्लभः।
हृद्‌गतः स्वगुणान्‌ श्रुत्वा पूर्णः प्लावयते जनान्‌॥८॥

त्स्मात्सर्वं परियज्य निरुद्धैः सर्वदा गुणाः।
सदानन्दपरैर्गेयाः सच्चिदानन्दता ततः॥९॥

अहं निरुद्धो रोधेन निरोधपदवीं गतः।
निरुद्धानं तु रोधायः निरोधं वर्णयामिते॥१०॥

हरिणा ये विनिर्मुक्तास्ते मग्ना भवसागरे।
ये निरुद्धास्त एवात्र मोदमायान्त्यहरिनिशम्‌॥११॥

संसारावेशदुष्टानामिन्द्रियाणां हिताय वै।
कृष्णस्य सर्ववस्तूनि भूम्न ईशस्य योजयेत्‌॥१२॥

गुणेष्वाविष्टचित्तानां सर्वदा मुरवैरिणः।
संसारविरहक्लेशौ न स्यातां हरिवत्सुखम्‌॥१३॥

तदा भवेद्‌दयालुत्वमन्यथा क्रूरता मता।
बाधशंकापि नास्त्यत्र तदध्यासोsपि सिद्धयति॥१४॥

भगवद्धर्म सामर्थ्यादिरागो विषये स्थिरः।
गुणैहरेः सुखस्पर्शान्न दुःखं भाति कर्हिचित्‌॥१५॥

एवं ज्ञात्वा ज्ञानमार्गादुत्कर्षं गुणवर्णने।
अमत्सरैरलुब्धैश्च वर्णनीयाः सदा गुणाः॥१६॥

हरिमूर्तिः सदा ध्येया संकल्पादपि तत्र हि।
दर्शनं स्पर्शनं स्पष्टं तथा कृतिगति सदा॥१७॥

श्रवणं कीर्त्तनं स्पष्टं पुत्रे कृष्णाप्रिये रतिः।
पायोर्मलांशत्यागेन शेषभागं तनौ नयेत्‌॥१८॥

यस्य वा भगवत्कार्य यदा स्पष्टं न दृश्यते।
तदा विनिग्रहस्तस्य कर्त्तव्य इति निश्चयः॥१९॥

नातः परतरो मन्त्रो नातः परतरः स्तवः।
नातः परतरा विद्या तीर्थं नातः परात्परम्‌॥२०॥

पश्चात्तपनिवृत्यर्थं परित्यागो विचार्यते।
स मार्गाद्वितये प्रोक्तो भक्तौ ज्ञाने विशेषतः॥१॥

कर्म मार्गे न कर्त्तव्यः सुतरां कलिकालतः।
अत आदौ भक्तिमार्गे कर्त्तव्यत्वाद्विचारणा॥२॥

श्रवणादिप्रसिद्धयर्थं कर्त्तव्यश्चेत्स नेष्यते।
सहाय संग साध्यत्वात्साधनानां च रक्षणात्‌॥३॥

अभिमानान्नियोगाच्च तद्‌धर्मैश्च विरोधतः।
गृहादेर्बाधकत्वेन साधनार्थं तथा यदि॥४॥

अग्रेsपि तादृशैरेव संगो भवति नान्यथा।
स्वयंच विषयाक्रान्तः पाषण्डी स्यात्तु कालतः॥५॥

विषयाक्रांत देहानां नावेशः सर्वथा हरेः।
अतोsत्र साधने भक्तौ नैव त्यागः सुखावहः॥६॥

विरहानुभवार्थ तु परित्यागः प्रशस्यते।
स्वीयबन्धनिवृत्यर्थं वेषः सोsत्र न चान्यथा॥७॥

कौण्डिन्यो गोपिकाः प्रोक्ता गुरवः साधनं च तत्‌।
भावो भावनया सिद्धः साधनं नान्यदिष्यते॥८॥

विकलत्वं तथाsस्वास्थ्यं प्रकृतिः प्राकृतं नहि।
ज्ञानं गुणाश्च तस्यैवं वर्त्तमानस्य बाधकाः॥९॥

सत्यलोके स्थितिर्ज्ञानात्संन्यासेन विशेषितात्‌।
भावना साधनं यत्र फलं चापि तथा भवेत्‌॥१०॥

तादृशाः सत्यलोकदौ  तिष्ठन्त्येव न संशयः।
बहिश्चेत्प्रकटः स्वात्मा वहिवत्प्रविशेद्यदि॥११॥

तदैव सकलोबन्धो नाशमेति न चान्यथा।
गुणास्तुसंगराहित्याज्जीवनार्थं भविन्ति हि॥१२॥

भगवान्‌ फलरूपत्वान्नात्र बाधक इष्यते।
स्वास्थ्यवाक्यं न कर्त्तव्यं दयालुर्न विरुद्धयेत॥१३॥

दुर्लभोsयं परित्यागः प्रेरणा सिद्धयति नान्यथा।
ज्ञानमार्गे तु सन्यासो द्विविधोsपि विचारितः॥१४॥

ज्ञानार्थमुत्तराग्ङञ्च सिद्धिर्जन्मशतैः परम्‌।
ज्ञानं च साधनापेक्षं यज्ञादिश्रवणान्मतम्‌॥१५॥

अतः कलौ स सन्यासः पश्चात्तापाय नान्यथा।
पाषण्डित्वं भवेच्चापि तस्माज्जाने न सन्यसेत्‌॥१६॥

सुतरां कलिदोषाणां प्रबलत्वादिति स्थितम्‌।
भक्तिमार्गेपिचेद्दोषस्तदा किं कार्यमुच्यते॥१७॥

अत्रारम्भे न नाशः स्याद्‌ दृष्टान्तस्याप्यभावतः।
स्वास्थ्यहेतोः परित्यागाद्‌ बाधः केनास्य संभवेत्‌॥१८॥

हरिरत्र न शक्नोति कर्तु बाधां कुतोsपरे।
अन्यथा मातरो बालान्‌ न स्तन्यैः पुपुषुः क्वचित्‌॥१९॥

“ज्ञानिनामपि” वाक्येन न भक्तं मोहयिष्यति।
आत्मप्रदः प्रियश्चापि किमर्थं मोहयोष्यति॥२०॥

तस्मादुक्तप्रकारेण परित्यागो विधीयताम्‌।
अन्यथा भ्रश्यते स्वार्थादिति में निश्चता मतिः॥२१॥

इति कृष्णप्रसादेन वल्लभेन विनिश्चतम्‌।
सन्यासावरणं भक्तावन्यथा पतितो भवेत्‌॥२२॥

॥इति श्रीवल्लभाचार्यविरचितः सन्यासनिर्णयः समाप्तः॥

यथा भक्तिः प्रवृद्धा स्यात्तथोपायो निरूप्यते।
बीजभावे दृढ़े तु स्यात्यागाच्छवण कीर्त्तनात्‌॥१॥

बीजदाढ्‌र्य प्रकारस्तु गृहे स्थित्वा स्वधर्मतः।
अव्यावृत्तो भजेत्कृष्णं पूजया श्रवणादिभिः॥२॥

व्यावृतोsपि हरौ चित्तं श्रवणादौ यतेत्सदा।
ततः प्रेम तथाssसक्तिर्व्यसनं च यदा भवेत्‌॥३॥

बीजं तदुच्यते शास्त्रे दृढ़ं यन्नपि नश्यति।
स्नेहाद्रागविनाशः स्यादासत्तया स्याद्‌गृहारुचिः॥४॥

गृहस्थानां बाधकत्वमनात्मत्वं च भासते।
यदा स्याद्वयसनं कृष्णे कृतार्थः स्यात्तदैव हि॥५॥

ताद्यशस्यापि सततं गृहस्थानं विनाशकम्‌।
त्यागं कृत्वा यतेद्यस्तु तदर्थार्थैकमनसः॥६॥

लभेत सुदृढ़ां भक्तिं सर्वतोप्यधिकां पराम्‌।
त्यागे बाधकभूयस्त्वं दुःसंसएगात्तथान्नतः॥७॥

अतस्थेयं हरिस्थाने तदीयैः सह तत्परेः।
अदूरे विप्रकर्षे वा यथा चित्तं न दुष्यति ॥८॥

सेवायां वा कथायां वा यस्याssसक्तिर्दृढ़ा भवेत।
यावज्जीवं तस्य नाशो न क्वापीति मे मतिः॥९॥

बाधसंभावनायं तु नैकान्ते वास इष्यते।
हरिस्तु सर्वतो रक्षां करिष्यति न संशयः॥१०॥

इत्येवं भगवच्छास्त्रं गूढतत्वं निरूपितम्‌।
य एतत्‌समधीयेत तस्यापि स्याद्‌ दृढ़ा रतिः॥११॥

॥इति श्रीवल्लभाचार्यविरचित भक्तिवर्द्धिनी सम्पूर्णा॥

विवेकधैर्ये सततं रक्षरणीय तथाश्रयः
विवेकस्तु “हरिः” सर्व निजेच्छातः करिष्यति॥१॥

प्रार्थिते वा ततः किं स्यात्‌ स्वाम्यभिप्रायसंशयात्‌।
सर्वत्र तस्य सर्वं हि सर्वसामर्थ्यमेव च॥२॥

अभिमानस्य संत्याज्यः स्वाम्यधीनत्व भावनात्‌।
विशेतश्वे दाज्ञा स्यादन्तः करणगोचरा॥३॥

तदा विशेषगत्यादि भाव्यं भिन्नं तु दैहिकात्‌।
आपद्‌गत्यादिकार्येषु हठस्त्याज्यश्च सर्वथा॥४॥

अनाग्रहश्च सर्वत्र धर्माधर्माग्रदर्शनम्‌।
विवेकोsयं समाख्यातोधैर्यं तु विनिरूप्यते॥५॥

त्रिदुःखसहनं धैर्यमामृतेः सर्वतः सदा।
तक्रवद्भेहवभाव्यं जडवद्‌गोपभार्यवत्‌॥६॥

प्रतीकारो यद्‌च्छातः सिद्धश्चेन्नाग्रही भवेत्‌।
भार्यादीनां तथान्येषामसतश्चाक्रमं सहेत्‌॥७॥

स्वयमिन्द्रियकार्याणि कायवाङ्‌मनसा त्यजेत्‌।
अशूरेणपि कर्त्तव्यं स्वस्यासामर्थ्यभावनात्‌॥८॥

अशक्ये हरिरेवास्ति सर्वमाश्रयतोभवेत्‌।
एतत्सहनमत्रोक्त्तमाश्रयोsतो निरूपयेत॥९॥

एहिके पारलोके च सर्वथा शरणं हरिः।
दुःखहानौ तथा पापे भये कामद्यपूरणे॥१०॥

भक्तदोहे भक्तयभावे भक्तैश्‍चापि क्रमे कृते।
अशक्ये वा सुशवये वा सर्वथा शरणं हरिः॥११॥

अहंकार कृते चैव पोष्य पोषणरक्षणे।
पोष्यातिक्रमणे चैव तथान्तेवास्यतिक्रमे॥१२॥

अलौकिक मनः सिद्धौ सर्वार्थं शरणं हरिः।
एवं चित्ते सदा भाव्यं वाचा च परिकीर्तयेत्‌॥१३॥

अन्यस्य भजनं तत्र स्वतो गमन मेव च।
प्रार्थनाकार्य मात्रेsपि ततोsन्यत्र विवर्जयेत्‌॥१४॥

अविश्वासो न कर्त्तव्यः सर्वथा वाधकस्तु सः।
ब्रह्मास्त्र चातकौ भाव्यौ प्राप्तं सेवेत निर्ममः॥१५॥

यथाकथंचित्‌ कार्याणि कुर्यादुच्चावचान्यपि।
किंवा प्रोक्तेन बहुना शरणं भावयेद्भरिम्‌॥१६॥

एवमाश्रयणं प्रोक्तं सर्वेषां सर्वदा हितम्‌।
कलौ भक्तयादिमार्गा हि दुस्साध्या इति मे मतिः॥१७॥

॥ इति श्री वल्लभाचर्यप्रोक्तं विवैकधैर्याश्रयं सम्पूर्णम्‌ ॥

श्री वल्लभ चरण लग्यो चित मेरो ।
इन बिन और कछु नही भावे, इन चरनन को चेरो ॥१॥
इन छोड और जो ध्यावे सो मूरख घनेरो ।
गोविन्द दास यह निश्चय करि सोहि ज्ञान भलेरो ॥२॥

नवीनतम

श्रेणियां

पुरालेख

अन्नकूट के पद आरती आश्रय के पद आसकरण जी इन्द्रमान भंग के पद कलेऊ के पद कुंभनदास जी कृष्णदास जी कृष्णदासनि जी खंडिता के पद गणगौर के पद गदाधर जी गिरिधर जी गोविन्द दास जी घासीराम जी चतुर्भुज दास जी छीतस्वामी जी जगाने के पद जन्माष्टमी डोल के पद तुलसीदास जी दान के पद दीनता के पद द्वारकेश धमार के पद नंददास जी नंद महोत्सव नित्य पाठ नित्य सेवा परमानंददास जी पलना पवित्रा के पद फूलमंडली के पद बसंत के पद भगवान दास जी मंगला आरती मंगला सन्मुख मकर सक्रांति के पद महात्म्य महाप्रभु जी का उत्सव महाप्रभू जी की बधाई माधोदास जी यमुना जी के पद यमुना जी के ४१ पद रथ यात्रा के पद रसिक दास राखी के पद राग आसावरी राग कल्याण राग कान्हरो राग काफी राग केदार राग गोरी राग गौड सारंग राग जैजवंती राग टोडी राग देवगंधार राग धना श्री राग नूर सारंग राग बसंत राग बिलावल राग बिहाग राग भैरव राग मल्हार राग मालकौस राग मालव राग रामकली राग रायसो राग ललित राग विभास राग सारंग राग सोरठ राजभोज आरोगाते समय रामनवमी के पद रामराय जी विवाह के पद विविध विविध भजन शयन सन्मुख के पद श्री गंगाबाई श्रीजी श्रीनाथ जी श्री महाप्रभु जी के पद श्री वल्लभ श्री वल्ल्भ श्री हरिराय जी श्रृंगार के पद श्रृंगार सन्मुख षोडश ग्रंथ सगुनदास जी सांझी के पद सूरदास जी सूरश्याम हरिदास जी हिंडोरा के पद होली के पद होली के रसिया

Enter your email address to subscribe to this blog and receive notifications of new posts by email.

Join 356 other subscribers